________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुल्यवच्च प्रसंख्यानात् ॥ ३७ ॥
॥ ३८ ॥ सहाङ्गं प्रधानम् || ३९ ||
प्रतिषिद्धे च दर्शनात् -
तृतीयः खण्डः.
देशे काले कर्तरीति निर्दिश्यते ॥ १ ॥
स्वशब्दं यत् || २॥
अपूर्वो दर्वीहोमः ॥ ३॥ जुहोतिचोदनः स्वाहाकारप्रदान:॥ ४ ॥ सकृद्गृहीत्वा ॥ ५ ॥ आहुतिगणे प्रत्याहुति गृहीत्वा ॥ ६ ॥ न वा समवद्येत् ॥ ७ ॥ समिदभावश्च ॥ ८ ॥ अग्निहोत्रवर्जम् ॥ ९॥ अपरेणा दक्षिणं जान्वाच्यानाच्य वासीनो दवहोमानू जुहोति ॥ १० ॥ वचनादन्यथा ॥ ११ ॥ अपरेणाहवनीयं दक्षिणातिक्रम्योदगावृत्तस्सर्वा आहुतीर्जुहोति ॥ १२ ॥ वचनादन्यथा || १३ || आश्रुतप्रत्याश्रुते याज्यानुवाक्ये अवदानेषु चोपस्तरणाभिघारणे चतुर्गृहतिं वषट्कारश्चादर्वीहोमानाम् ॥ १४ ॥ वषट्कृते वषट्कारेण बाहुतिषु
उपयामेन ग्रहेषु ॥ १६ ॥
तया
सन्निपातयेत् ॥ १५ ॥ देवतेनेष्टकासु || १७ || पुरोडाशगणे यथाभागं व्यावर्तध्वमित्येकैकमछिन्द्यात् ॥ १८ ॥ उत्तमौ यथाभागं व्यावर्तेथामिति तयोरेव देवतोपदेशनं करोति ॥ १९ ॥ चरुपुरोडाशगणे चरुपुरोडाशीयान् प्रागधिवपनाद्विभजति ॥ २० ॥ यथादेवतमुपलक्षयति || २१ || इदंशब्दस्तत्रं स्यात् ॥ २२ ॥ व्यतिवक्तेष्वपि ॥ २३ ॥ कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण चरुमुपदधाति ध्रुवोसीति मन्त्रं सन्नमयति ॥ २४ ॥ पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति ।। २५ ।। अधिश्रयण
For Private and Personal Use Only