________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चयः ॥८॥ रौद्रराक्षसनैर्ऋतपैतृकच्छेदनभेदननिरसनात्माभिमर्शनानि च कृत्वाप उपस्पृशेत् ॥ ९॥ उत्तरतउपचारो विहार:॥ १०॥ नागेरपपर्यावर्तेत ॥ ११ ॥ न विहारात् ॥ १२॥ अन्तराणि यज्ञाङ्गानि बाह्याः कारः ॥ १३ ॥ न मन्त्रवता यज्ञाङ्गेनात्मानमाभिपरिहरेत् ॥ १४ ॥ प्रागपवर्गाण्युदगपवर्गाणि वा यज्ञोपवीती प्रदक्षिणं दैवानि कर्माणि करोति ॥१५॥ प्राचीनावीती प्रसव्यं दक्षिणापवर्गाणि पित्र्याणि ॥ १६॥ यानि शुल्बानि समासं गच्छन्ति प्रसव्यं तान्यावेष्टर प्रदक्षिणं समस्येत् ॥ १७॥ अथ यानि न समस्यन्ते प्रदक्षिणं तानि॥ १८ ॥ अमावास्यायाममावास्यया यजेत ॥ १९ ॥ पौर्णमास्यां पौर्णमास्या ॥ २० ॥ यदहः पुरस्ताचन्द्रमाः पूर्ण उसत्तां पौर्णमासी मुपवसेत् ॥ २१ ॥ श्वः पूरितेति वा ॥२२॥ खर्विकां तृतीयां वाजसनेयिनस्समामनन्ति ॥ २३ ॥ यदहनदृश्यते तदहरमावास्याम् ॥ २४॥ श्वो न द्रष्टार इति वा॥ २५ ॥ एकप्रकरणे चोद्यमानानि प्रधानानि समानविधानानि ॥ २६ ॥ प्रकरणेन विधयो बध्यन्ते ॥ २७ ॥ अनिर्देशात्साधारणानि ॥ २८ ॥ निर्देशाद्वचवतिष्ठन्ते ॥ २९ ॥ आग्रेयोर टाकपालोर-नीषोमीय एकादशकपाल उपांशुयाजश्च पौर्णमास्यां प्रधानानि ॥ ३०॥ तदङ्गमितरे होमाः ॥३१॥ आमेयोर टाकपाल ऐन्द्रान एकादशकपालो द्वादशकपालो वा2-मावास्यायामसोमयाजिनः ॥ ३२॥ सान्नाय्यं द्वितीयं सोमयाजिनः ॥ ३३ ॥ नासोमयाजिनो ब्राह्मणस्यानीपोमीयः पुरोडाशो विद्यते ॥ ३४ ॥ नैन्द्रामस्सन्नयतो वर्णाविशेषेण॥ ३५॥ पितृयज्ञः स्वकालविधानादनगं स्यात् ॥ ३६ ॥
For Private and Personal Use Only