________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
॥ ११ ॥
00000
[0][D
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यद्यस्ति ते परचमृदलनाय शक्तिः । कल्याणिनी खलु नृपादरणीयता च ॥ ६७ ॥ स्वकपोलमदैः प्रलोभित- श्चिरमेष प्रथमं मधुव्रतः ॥ तमथो गजराज निघ्नतो । न हि लज्जापि समभ्युपैति ते ॥ ६९ ॥
दविष्टसंदर्शितरम्यरूपं । तुंगं महांतं बत सानुमंतं ॥ मात्रापिथाः पांथ समीक्ष्य मोहं । दृषन्मयोऽयं कठिनt यदस्ति ॥ ७० ॥ श्रीखंडरक्षणकृते परितो भुजंगे-वृत्तिं करोषि मलयाचल मत्सरी सन् ॥ मिथ्यैव सा हि गुणिनो यदिवा निरुद्धा-स्तत्किं निरुद्ध इदमीयगुणज्ञलोकः ॥ ७१ ॥ किं खिद्य से भ्रमर कंटकिपंकजिन्या | मुद्राणकोशकुहरे पतितः प्रसह्य ॥ यद्दााहार्दमनया बहु दर्शयित्वा । त्वद्भ्रातरः किल | वयस्य न पातिताः के ॥ ७२ ॥ नलिनि त्वमर्तिमथ मैव कृथा । नवरंगभाजि कनकद्रुमे ॥ मनुते रतिं मधुकरः किल य-न्न हि कः कलाविह नवाभिमुखः ॥ ७३ ॥ नक्रासन्नीकृतोऽपि स्वकरसरसिजद्वंद्वमास्थापितः सन् । भूयोभूयोऽर्थितोऽपि त्वमथ नहि कदाप्यत्र सौरभ्यलेशं ॥ दत्से हे काकतुंड प्रकृतिखरतरस्तेन जाज्वल्यमान - ज्वालाजिह्वेन दग्धः सकलमपि हहा हारयिष्यस्यवश्यं ॥ ७४ ॥ त्रयस्त्रिंशत्कोटित्रिदशमुखमग्ने पुनरपि । प्रतीतिं विभ्राणस्त्रिदशपरपर्यायजनितां ॥ प्रकुर्वतं सेवामपि दहसि होता -
For Private and Personal Use Only
00000000000
शतकम्
॥ ११ ॥