SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा. ___ दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥ यामस्ते शिवमस्तु रोहणगिरे मतः स्थितिप्रच्युता ___ वर्तिष्यन्त इमे कथं कथमपि खप्नेऽपि मैवं कृथाः । भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ४० ॥ उत्तंसेषु ननत न क्षितिभुजां न प्रेक्षकैर्लक्षितः साकाझं लुठितो न च स्तनतटे लीलावतीनां कचित् । कष्टं भोश्विरमन्तरेव जलधैर्देवाद्विशीर्णोऽभव खेलयालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ४१ ॥ पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्रपाश्चात्यस.. रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि मणिक्यमेकम् । यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्यः प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ४२ ॥ ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःखण्डकं ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम् । नो जाने किमभावतः किमथ वा दैवादहो श्रूयते नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ४३ ॥ पथि परिहृतं कैश्चिदृष्ट्वा न जातु परीक्षितं विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् । गवलगलनामन्यैः कृत्वा प्रघृष्टमपण्डितै. मरकतमहो मार्गावस्थं कथं न बिडम्बितम् ।। ४४ ।। वणिगधिपते किंचिद्रूमस्त्रपामिह मा कृथाः कथय निभृतं केयं नीतिः पुरे तव संप्रति । मरकतमणिः काचो वायं भवेदिति संशये लवणवणिजां यद्व्यापारः परीक्षितुमर्पितः ।। ४५ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy