________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
Acharya Shri Kailassagarsuri Gyanmandir
Acha
८८
काव्यमाला।
अथ मलयाचलस्य । वन्दामहे मलयमेव यदाश्रयेण
शाखोटनिम्बकुटजा अपि चन्दनन्ते । किं तेन हेमगिरिणा रजताद्रिणा वा
यस्याश्रिताश्च तरवस्तरवस्त एव ॥ २० ॥ त्वं सेवितः किल फलाय तदस्तु दूरे
व्यालान्निवारय निपीडयतो बलान्नः । एतत्तवाप्यभिमतं यदि तन्नमस्ते
यामोऽन्यतो मलय हे नतु चन्दनाः स्मः ॥ २१ ॥ इक्कस्स मलयगिरिणो दिज्जइ रेहागिरीणमझ्झम्मि । जत्थ विय कडुय निम्बा रुरका सिरिचन्दणं होन्ति ॥ २२ ॥
अथ रोहणाचलस्य । रोहणाचल शैलेषु कस्तुलां कलयेत्तव । यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ २३ ॥ रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् । हहो रोहण किं तु याचकचमूनिःशङ्कटङ्कक्षतिक्षान्तिस्वीकरणेन गोत्रतिलकत्रैलोक्यवन्द्यो भवान् ॥ २४ ॥
(इति सामान्यविशेषपर्वतान्योक्तयः।)
अथ रत्नान्योक्तयः । अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् । येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ २५॥ यस्य वज्रमणेभैदे भिद्यन्ते लोहसूचयः । करोति तत्र किं नाम नारीनखविलेखनम् ॥ २६ ॥ सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् ।
उद्गारे तु विशेषोऽस्ति तयोरमृतवह्निजः ॥ २७ ॥ १. चन्दनन्ति, चन्दनानि वा समुचितम्.
For Private And Personal Use Only