SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अन्योक्तिमुक्तावली। ये संतोषसुखप्रबुद्धमनसस्तेषां न भिन्ना मुदो येप्यन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता । इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदा स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १४ ॥ मुरारातिर्लक्ष्मी त्रिपुरविजयी शीतकिरणं करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधेः । त्वया किंवा लब्धं कथय मथितो मन्दरगिरे शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥ १५ ॥ अथ हिमालयस्य । विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् । ईश्वरश्वशुरताप्रभावतस्तद्धवं जगति जृम्भते यशः ।। १६ ।। अथ मैनाकस्य । शक्रादरक्षि यदि पक्षयुगं तथापि मैनाक सन्ति तव नेह गतागतानि । निःसत्त्वता च निरपत्रपता च किंतु पाथोनिधौ निपतता भवतार्जिता च ॥ १७ ॥ अथ पूर्वाचलस्य । इक्कुच्चिय उदयगिरी जयन्तु चूडामणी भुवणमज्झे । जोसीसे काऊणं मित्तं उदयं करावेइ ॥ १८ ॥ अथ विन्ध्यभूधरस्य । आचक्ष्महे बत किमद्यतनीमवस्था तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य । यत्रैव सप्त मुनयस्तपसा निषेदुः सोऽयं विलासवसतिः पिशिताशनानाम् ॥ १९ ॥ १. मददादिति प्रतिभाति. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy