________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
शरबन्धचित्रम् । वयं स्मरामस्त्रिशलातनूजं सिद्धार्थसंतानकुलप्रदीपम् । न हावभावैर्मरुदङ्गनाभिर्मनो यदीयं विशदं प्रभिन्नम् ॥ ५ ॥ श्रीदातारं विश्वाधारं बुद्ध्यासारं नित्योदारम् । चञ्चद्वेरं वन्दे वीरं भूभृद्वीरं क्षेमागारम् ॥ ६ ॥
__ अष्टदलकमलबन्धचित्रमिदम् । श्रीविजयानन्दगुरुं विजयानन्दमन्दिरम् । भूरि भूरिशिरोरत्नं महोदयमभिष्टुमः ।। ७ ।
अथ प्रतिद्वारवृत्तानि । प्रतिद्वारक्रमं चश्चत्सच्चमत्कारकारकम् । विरच्यते पञ्चमेऽथ परिच्छेदे पटीयसि ॥ ८ ॥ सामान्यभूधरान्योक्तिर्मन्दरोक्तिस्ततः परम् । हिमाद्यन्योक्तिमै]नाकान्योक्तिपूर्वाचलोक्तयः ॥ ९ ॥ ततो विन्ध्याचलान्योक्तिर्मलयाद्रेः सदुक्तयः । रोहणोवीधरान्योक्ती रत्नस्यान्योक्तयस्तथा ॥ १० ॥ मञ्जमुक्ताफलान्योक्तिः सुवर्णोक्तिस्ततः परम् । पित्तलोक्तिः समाख्याता धूल्युक्तिरपरा मता ॥ ११ ॥
अथ पृथ्वीकायपद्धतौ पूर्व सामान्यपर्वतस्य । नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः
शृङ्गैज्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङ्मुखेषु क्षिपन्तः । येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पितानामाकाशे विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौधः ॥ १२
__ अथ मेरोः। धिक्कनकं तव कनकगिरे यस्य न जगदुपभोगः ।
वरमन्ये गिरयो येषां तृणकाष्ठाद्युपभोगः ॥ १३ ॥ १ अनुष्टुब्जातौ विद्युन्मालाछन्दः.
For Private And Personal Use Only