________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। श्यामतया स्थूलतया दूरतया गन्धलोलुपैर्भमरैः । धावितमिभराजधिया दृष्टश्चेदग्रतो महिषः ॥ ७५ ।। चिन्तयति न चूतलतां याति न जातिं न केतकी क्रमते । कमललतालममना मधुपयुवा केवलं कणति ॥ ७६ ॥ साहीणेसु न रच्चसि दुल्लहलम्भेसु वहसि अणुरायम् । हरिणाहि कमलकं खिर रे भसल सुदुक्करं जियसि ॥ ७७ ।। ढुण्ढुण्णन्तो मरीहिसि कण्टयकलियाई केयइ वणाइम् । मालइकुसुमसरिच्छं भमर भमन्तो न पाविहिसि ॥ ७८ ॥ वसिऊण सग्गलोए गन्धं लहिऊण पारिजायस्स । रे भसल किं न लज्जसि सेवन्तो निम्बकुसुमाइम् ॥ ७९ ॥ गयगन्धं वलियरसं भूमीपडियं च केतकीकुसुमम् ।
तहविहु पुव्वसनेहो भमरो आलिङ्गनं देई ॥ ८० ॥ इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक
वृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यहंसविजयगणिसमुचितायामन्योक्तिमुक्तावल्यां विकलेन्द्रियजीवा
न्योक्तिनिरूपकश्चतुर्थः परिच्छेदः ॥ ४ ॥
पञ्चमः परिच्छेदः। श्रीमच्छङ्घपुरस्फारभूमिमौलिमणीयते । नमःपार्श्वजिनेशाय विश्वकल्पद्रुमाय ते ॥ १ ॥ तब पार्श्वेशपादाजसपर्यातत्परा नराः । सुखश्रीसर्वसंपद्भिर्विलसन्त्यद्भुतोदयाः ॥ २ ॥ वाचंयमेश शं देहि देहिनां त्रिदशैर्नतः । तनुच्छविजितस्वर्णाचल वीर गभीरक ॥ ३ ॥
धनुर्बन्धचित्रम् । भद्रं मम महावीर शीघ्रं दद कुरु प्रभो । कल्याणकमलागार क्षमारससमायुतः ॥ ४ ॥
For Private And Personal Use Only