________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मा गा विषादमलिपोतक केतकीना
मन्तर्विगूढमनवाप्य मधुप्रकर्षम् । लाभः स एव भवतो यदि कण्टकानां
श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ६८ ॥ श्रियो वासोऽम्भोजे त्रिदिवसरिदम्भोजकुहरे
हरेर्नाभीपञ मधु मधुकरो यः किल पपौ । स दैवादुन्मीलत्तपनकरतापव्यतिकर
व्यथाकम्प्रः संप्रत्यतरुमरुभूमौ विचरति ॥ ६९ ॥ आयाति याति पुनरेति पुनः प्रयाति
पद्माङ्कुराणि विचिनोति धुनोति पक्षौ । उन्मत्तवद्भमति कूजति रारटीति ।
कान्तावियोगविधुरः किल चञ्चरीकः ॥ ७० ॥ अयं नीलस्निग्धो य इह विहरत्यम्बुजवने
विकोशे व्यागुञ्जन्मधुप इति तं जल्पति जनः । अहं शङ्के पङ्केरुहकुहरवासे व्यसनिनी
श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥ ७१ ॥ गन्धाढ्यां नवमालती मधुकरस्त्यक्त्वा गतो यूथिकां
तां त्यक्त्वाशु गतश्च चम्पकतरं पश्चात्सरोजं गतः । रुद्धस्तत्र निशाकरेण सहसा क्रन्दत्यसौ मूढ हा
संतोषेण विना विवेकिमन (सा ते) [सःसं] प्राप्नुवन्त्यापदम्।।७२।। गन्धाढ्यासौ जगति विदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या रसिकमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुमरजसा कण्टकैश्छिन्नपक्षः
स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ७३ ।। मालतीमुकुले भाति गुञ्जन्मन्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥ ७४ ॥ १. 'मूढधीः सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः' इति पाठः.
For Private And Personal Use Only