________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
अन्योक्तिमुक्तावली। अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः । विधिनिदेशविदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ६१ ॥ येनामोदिनि पङ्कजस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी । भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥ ६२ ॥ इह सरसि सहर्ष मञ्जु गुञ्जाभिरामं . मधुकर कुरु केलिं सार्धमम्भोजिनीभिः । अनुपममकरन्दामोददत्तप्रमोदा
त्यजति [तव] (वत) न निद्रां मालती यावदेषा ॥ ६३ ॥ एनाममन्दमकरन्दविनिद्रबिन्दु
संदोहदोहदपदं नलिनी विमुच्य । हे मुग्ध षट्पद निरर्थकरागभाजि ___ जातं मनस्तव जपाकुसुमे किमत्र ॥ ६४ ॥ निराचष्टे यष्टिं कुरबकतरोरजसरसा__ मसद्भावं ब्रूते वदति बकुलानामकुशलम् ।
वनान्ते चूतानामभवनमिहाख्याति वसति__ मसौ झिझीझाटे झटिति घटमानो मधुकरः ।। ६५ ।। निरानन्दः कौन्दे मधुनि विधुरो बालबकुले __रसाले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गौ नो सङ्गं रचयति न चूते विचरति ___ स्मरॅलक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ६६ ॥ अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये
वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः । अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहती
येनानेकपगण्डगण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ ६७ ॥ १. 'विधिवशात्परदेश' इति पाठान्तरम्,
For Private And Personal Use Only