SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु । केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥ मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु । घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ५२ ॥ अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे । इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५३ ।। दग्धा सा बकुलावली कवलितास्त्वेते रसालद्रुमाः प्लुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः । भ्रातर्भूङ्ग दवामिना वनमिदं वल्मीकशेषं कृतं किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायते ॥ ५४ ॥ दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो नो जिघ्रत्यपि पाटलापरिमलं चूते न धत्ते रतिम् । मन्दारेऽपि न सादरो विचकिलामोदेऽपि संतप्यते तन्मन्ये क्वचिदङ्ग भृङ्ग तरुणेनास्वादिता मालती ॥ ५५ ॥ अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः । न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ ५६ ॥ ये वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः । ते सांप्रतं प्रतिदिनं गमयन्ति कालं निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ५७ ॥ अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे । विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ५८ ॥ अपि दलन्मुकुले बकुले यया पदमदायि कदापि न तृष्णया । अहह सा सहसा विमुखे विधौ मधुकरी बदरीमनुवर्तते ॥ ५९॥ पादेनापहता येन जातीलुब्धेन मल्लिका । अहो दैवादलेस्तस्य बदर्यपि सुदुर्लभा ॥ ६० ॥ १. 'हेलया'इति पाटान्तरम्. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy