SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। सत्यं विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः॥ ४३ ॥ अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि । गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ ४४ ॥ दानार्थिनो मधुकरा यदि कर्णताला दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपझवने चरन्ति ॥ ४५ ॥ प्रतिवेशी हंसजनः क्रीडाभवनानि पुण्डरीकाणि । हृद्यं मधु जलममलं मधुकर तत्रैव यदि रमसि ॥ ४६ ॥ मातङ्गेन मदावलिप्तमतिना यत्कर्णतालानिलै___र्दानार्थ समुपागता मधुलिहो दूरं समुत्सारिताः । तस्यैवाननमण्डनक्षतिरमी भृङ्गाः पुनः सर्वतो ___ जीविष्यन्ति वनान्तरेषु विलसत्पुष्पासवैः साधुभिः ॥ ४७ ॥ यद्यप्यानतरोरमुष्य तरुणीकर्णावतंसोचिता माजिघन्नवमञ्जरी मधुप हे जातोऽसि पूर्णोत्सवः । वि(स्म)तु भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं यस्यास्वाद्य मधूनि धूनितशिरो मञ्जु त्वयोद्गुञ्जितम् ॥ ४८ ॥ मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः । तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं परिचितजनद्वेषी लोको नवं नवमीहते ॥ ४९॥ . यस्याः सङ्गमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला यामालिङ्गय समुत्सुकेन मनसा यातः परां निवृतिम् । भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते धैर्य नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ ५० ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy