________________
Shri Mahavir Jain Aradhana Kendra
८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
मुग्धामनाप्तरजसं कलिकामकाले बालां कदर्थयसि किं नवमल्लिकायाः ॥ ३६ ॥ विकटनितम्बायाः ः ।
बाला तन्वी मृदुतरतनुस्त्यज्यतामत्र शङ्कां दृष्टा किं न भ्रमर चरता मञ्जरी भज्यमाना । तस्मादेषा रहसि भवता निर्दयं पीडनीया
मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ ३७ ॥ मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् । वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ ३८ ॥ फुलेषु यः कमलिनीकमलोदरेषु
चूतेषु यो विलसितः कलिकान्तरस्थः । पश्याथ तस्य मधुपस्य शरव्यपाये
कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ३९ ॥ स्वामोदवासितसमग्रदिगन्तराला
रक्ता मनोहरशिखा सुकुमारमूर्तिः । सेव्या सरोजकलिका तु सदैव जाता
नीतस्तदैव विधिना मधुपोऽन्यदेशम् ॥ ४० ॥ धिक्कापि प्रलयानलैर्विटपिनो निर्दय भस्मीकृताः
किंवा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् । किंवा हन्त कृतान्त केसरिभयात्त्यक्तो मदः कुञ्जरै
नास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ ४१ ॥ यत्प्रोन्मत्तमतङ्गजाङ्गविंगलद्दानाम्बुलोभभ्रम
ङ्गाली किल कूजतीति विदुषां चित्ते विधत्ते धियम् । कर्णाभ्यर्णमुपेत्य किं ननु वदत्येषा शिरःकम्पनै
मान्य नाग देहि विततं दानं चलाः संपदः ॥ ४२ ॥ सोsपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।
For Private And Personal Use Only