SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । अथ भ्रमरान्योक्तयः । मधुकर तब करनिकरैः किं किं क्रान्तं न कुसुमानाम् । तद्वत्सरसिजमुकुले लब्धं किंचित्तदन्यतत्सत्किम् ॥ २६ ॥ गौरी चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे । शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २७ ॥ कृत्वापि कोशपानं भृङ्गयुवा पुरत एव कमलिन्याः । अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ २८ ॥ सुरतरुकुसुमे मधु मधुरं यन्मधूपेन निपीतम् । सत्प्रयतोऽपि करीरतरौ लभतां कथमविगीतम् ॥ २९ ॥ भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता गरीयसी केवलमीश्वरेच्छा ॥३०॥ भ्रमर भ्रमता दिगन्तराणि कचिदासादितमीक्षितं श्रुतं वा । वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ३१ ॥ अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः । भ्रमति मधुकरोऽयमन्तराले श्रयति स पङ्कजिनीं कुमुद्वतीं वा ॥ ३२ ॥ द्विजपतिदयितां तां व्यक्तपुष्पां प्रदोषे ऽप्यहह कुमुदिनीं किं भृङ्ग भुङ्गे स्वधार्थ्यात् । मलिन मधुप मन्ये त्वय्यदः सर्वमह विहितमविहितं वा चिन्तयेत्को हि लोलः ॥ ३३ ॥ नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं वासन्तीं वसते न चन्दनवनीमालम्बते न क्वचित् । जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां ध्यायन्निर्वृतिमेति षट्टदयुवा योगीव वीतभ्रमः ॥ ३४ ॥ केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः || ३५ ॥ अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । For Private And Personal Use Only ७९
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy