________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
काव्यमाला।
सो सद्दो धवलत्तणं च रयणादारंमि उप्पत्ती । सङ्खस्स तुज्झकुटिलत्तणेण सव्वंपि पन्भट्टम् ॥ १९ ॥
(इति शङ्खान्योक्तयः ।) अथ मत्कुणस्य । मन्ये मत्कुणशङ्कया जलनिधौ गत्वा हरिः सुप्तवां___ स्तन्नाभ्यम्बुरुहे प्रजापतिरभूलक्ष्मीश्च तद्वक्षसि । कैलासाचलमाश्रितः पशुपतिौरी तदुत्सङ्गगा नक्षत्रग्रहमण्डलं च सकलं येषां भयाब्राम्यति ॥ २० ॥ शशिदिनकरौ व्योग्नि स्वर्गे शचीहृदयेश्वरो
धनपतिरसौ कैलासाद्रौ हरिर्मकराकरे । शतधृतिरयं नाभौ शम्भुः श्मशानभुवं गतो भुजगरमणोऽधो मन्येऽहं द्रुतं किल मत्कुणात् ॥ २१ ॥
अथ खद्योतान्योक्तयः। जर्जरतृणाग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् । कीटत्वमात्मतत्वात्खद्योतः ख्यापयन्भवति ॥ २२ ॥
इन्दुः प्रयास्यति विनश्यति तारकश्रीः __ स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः । अन्धं समग्रमपि कीटमणे भविष्य
त्युन्मेषमेष्यति भवानपि पूरमेतत् ॥ २३ ।। अदृष्टिव्यापारं गतवति दिनानामधिपतौ
यशःशेषीभूते शशिनि गतधाम्नि ग्रहगणे। तथान्धं संजातं जगदुपनते मेघसमये
यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥ २४ ॥ घनसन्तमसमलीमस दशदिशि निशि यद्विराजसि तदन्यत् । कीटमणे दिनमधुना तरणिकरान्तरितशीतकरम् ॥ २५ ॥
(इति खद्योतान्योक्तयः।)
For Private And Personal Use Only