SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। ७७ अन्तः कुटिलतां बिभ्रच्छङ्खः स खलु निष्ठुरः । हुंकरोति यदाध्मातस्तदेव बहु गण्यताम् ॥ ११ ॥ विमलतां वचनस्य ""गोचरे जनयिता तव शङ्ख महोदधिः । मुदमलं तनुते च तव ध्वनिः किमु ततो विधृता हृदि वक्रता ॥ १२ ॥ जन्मस्थानमपांनिधिः शुचितया ख्यातिस्तवैवोज्ज्वला ___ माङ्गल्ये च जगत्प्रबोधजनको नादस्तवैवाग्रणीः । किंवा ते कमलापतिः प्रणयिता ब्रूमस्तवैवंविधे माहात्म्ये सति शङ्ख सङ्गतमिदं कौटिल्यमन्तः कुतः ॥ १३ ॥ तातः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि । धिक्कर्माणि स एव कम्बुरधुना पाखण्डिकान्ताकरे विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्ष्येण कुक्षिभरिः ॥ १४ ॥ सर्वाशापरिपूरिहंकृतिमदो जन्मापि दुग्धोदधे गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः । श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि य कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनापि लज्जामहे ॥१५॥ शङ्खाः सन्ति सहस्रशो जलनिधेींचीघटाघट्टिताः पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः । एकः कोऽपि च पाञ्चजन्य उदभूदाश्चर्यधामा सतां यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ १६ ॥ अम्भोधेरेव जाताः कति जगति न ते हन्त सन्तीह शङ्खा यान्संगृह्य भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय । एकः श्रीपाञ्चजन्यो हरिहरकमलकोडहंसायमानों यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ॥ १७ ॥ पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी । शङ्खः प्रतिगृहं रौति कर्म तस्यैव कारणम् || १८ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy