SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। चतुर्थः परिच्छेदः । सिद्धिश्रिया किं निहिताः कटाक्षा मनोवशीकर्तुमिहाश्वसेनेः । त एव भान्ति स्वकशीर्षदेशस्थितस्फटानां कपटेन मन्ये ॥ १॥ श्रेयः श्रियं दिशतु सद्गुणराजराजी राजीवजैत्रनयनः सुररत्नकल्पः । कल्पद्रुमः किल जनाभिमतार्थसिद्धौ सिद्धौषधः स्मरगदे जिनवर्धमानः ॥ २ ॥ अथ समवसरणबन्धचित्रम् । सकललोकचकोरनिशाकर रजतकाय हरिध्वज शंकर । रमण संयमिनां भवतारक कविकुलत्रुतमुक्तिपुरे वस ॥ ३ ॥ निखिलनाकिनिकायविनिर्मितं ततमहामणिहेमहिमांशुभिः । भिदुरवद्यमहीभृति रातु शं समवयुक् सरणं तव मुत्खनि ॥ ४ ॥ सुजन भो सुतरां चरमप्रभुं भुवनवर्तिजनार्तिनिवारकम् । कलनिनादमभीष्टसुखप्रदं दमिवरं धर चेतसि सद्वसुम् ॥ ५ ॥ शुद्धप्राग्वाटवंशाभ्रप्रभासनदिवाकरः । दद्यादानन्दमानन्दसद्गुरुः सततोदयः ॥ ६ ॥ ___ अथ प्रतिद्वारवृत्तानि। वर्यतुर्यपरिच्छेदे प्रतिद्वारस्य पद्धतिः । सम्यग्बुद्धिप्रबोधाय तन्यते मयकाधुना ॥ ७ ॥ शङ्खान्योक्तिमत्कुणोक्तिः खद्योतान्योक्तयस्ततः । भ्रमरान्योक्तयो ज्ञेया वाग्विलासविशारदैः ॥ ८॥ अथ विकलेन्द्रियाधिकारपद्धतावादौ शङ्खान्योक्तयः। उच्चैरुच्चर रुचिरं झिल्लीवर्त्मसु तरुं समारुह्य । दिव्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ ९ ॥ कीटगृहं कुटिलोऽन्तः कठिनः क्षाराम्बुसंभवः शून्यः । शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लभते ॥ १० ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy