SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । विश्वोपजीवोऽपि पिबत्यपो न पद्माकरे यद्यपि चातकोऽयम् । खार्थक्षयस्तस्य तृषातुरस्य लधुत्वमत्रास्ति न किंचिदस्य ॥ १८१ ॥ (इति चातकान्योक्तयः ।) अथ चकोरस्य । चुलुकयसि चन्द्रदीधितिमविरलमश्नासि नूनमङ्गारान् । अधिकतरमुष्णमुनयो किमिति चकोरोऽवधारयति ॥ १८२ ।। अथ सारसस्य । आपूर्येत पुनः स्फुरच्छफरिकासारोमिभिर्वारिभि भूयोऽपि प्रविजृम्भमाणनलिनं पश्यामि तोयाशयम् । इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १८३ ॥ अथ टिभिस्य । स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते । उत्क्षिप्य टिट्टिभः पादौ शेते मङ्गभयाद्भुवः ॥ १८४ ॥ बक चटु तपसे त्वं शाखिनि क्वापि सान्द्रे श्रय झटिति तटिन्याष्टिट्टिभ त्वं तटानि । इह सरसि सरोजच्छन्नगम्भीरदेशे ललितगतिरिदानी रंस्यते राजहंसः ॥ १८५ ॥ अथ मयूरपिच्छस्य । व्यजनैरातपत्रैश्च भूत्वा पिच्छैः कलापिनाम् । स्थानभ्रष्टैरपि कृतं परेषां तापवारणम् ॥ १८६ ॥ अस्मान्विचित्रवपुषश्चिरपृष्ठलग्ना न्कस्माद्विमुञ्चसि सखे यदिवा विमुञ्च । हा हन्त केकिवर हानिरियं तवैव गोपालमौलिषु पुनर्भविता स्थितिर्नः ॥ १८७ ॥ इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारक श्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुचितायामन्योक्तिमुक्तावल्यां स्थलचरज लचरान्योक्तिनिरूपकस्तृतीयः परिच्छेदः ॥ ३ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy