SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ah Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। एते हि कामनिभृतोन्नतयोऽपि तृप्त्यै मुञ्चन्ति चातक पयो न पयोमुचस्ते ॥ १७४ ॥ योऽयं वारिधरो धराधरशिरस्यभ्युन्नतः केवलं गर्जत्येव गभीरधीरनिनदैर्नायं सखे वारिदः । तत्ते चातक पातकस्य कतमस्यैतत्फलं पठ्यते येनासौ न ददाति याति न भवच्चेतोऽपि निर्विघ्नताम् ॥१७५॥ अन्येऽपि सन्ति बत तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः । कोऽप्याग्रहो गुरुरयं हतचातकस्य पौरंदरीं समभिवाञ्छति वारिधाराम् ॥ १७६ ॥ अन्ये ते जलदायिनो जलधरास्तृष्णां विनिम्नन्ति ये __ भ्रातश्चातक किं वृथात्र रणितैः खिन्नोऽसि विश्राम्यताम् । मेघः शारद एष काशधवलः पानीयरिक्तोदरो गर्जत्येव हि केवलं भृशमपां नो बिन्दुमप्युज्झति ॥ १७७ ।। यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो ___ यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः । सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १७८ ।। धिग्वारिदं परिहृतान्यजलाशयस्य यश्चातकस्य कुरुते न तृषः प्रशान्तिम् । धिक् चातकं तमपि योऽर्थितयास्तलज स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ १७९ ॥ अनुसर सरस्तीरं वैरं किमत्र महात्मना कतिपयपयःपानं मानिन्समाचर चातक । प्रलयपवनैरस्तं नीतः पुरातनवारिदो यदयमदयं कीलाजालं विमुञ्चति नूतनः ॥ १८० ॥ १. 'एतेऽभिकामविधृतोन्नतयोऽपि तृप्त्यै' इति पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy