________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
अन्योक्तिमुक्तावली । किमत्र हे चातक दीर्घकण्ठं प्रसार्य वक्रं करुणं विरौषि । रात्रौ दिवा वर्षति वारिदोऽत्र तथापि पत्रत्रितयं पलाशे ॥ १६७ ॥ विरम चातक दैन्यमपास्यतां बत चटूनि कियन्ति करिष्यसि । विधिविनिर्मितमम्बुकणद्वयं किमधिकं कलयापि करिष्यसि ॥ १६८॥ बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्जृम्भितं
कन्दैः कन्दलितं जनैः प्रमुदितं धाराधरे वर्षति । भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानीमहे
येनास्मिन्न पतन्ति चञ्चपुटके द्वित्राः पयोबिन्दवः ॥ १६९ ॥ दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि सदा नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १७० ॥ रक्ताजपुञ्जरजसारुणितान्विमुच्य
स्वस्थान्सुधारससमानपि वारिराशीन् । यश्चातकः पिबति वारिधरोदबिन्दू
न्मन्ये तदानतिभयाच्छिरसोऽभिमानी ॥ १७१ ।। कूपे पानमधोमुखं भवति मे नद्यो वराक्यः स्त्रियः
सामान्यैर्बकटिट्टिभैः सह सरस्येवं समालोकयन् । नादत्ते तृषितोऽपि हीनसलिलं क्रूरैर्वृतं जन्तुभि
मानादुन्नतकंधरः सुरपतिं तच्चातको याचते ॥ १७२ ॥ हा धिक्परव्यसनदुर्ललिताशयेन
केनापि रे सरल चातक वञ्चितोऽसि । येनाम्बुवाहमपि याचसि याचितस्य
यस्यास्य याचितुरिवातिमलीमसत्वम् ॥ १७३ ।। किं नाम दुष्कृतमिदं भवतश्चकास्ति
येनात्र दैन्यपिशुनं बत याचितोऽपि ।
१८
For Private And Personal Use Only