SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ काव्यमाला। अथ चातकान्योक्तयः। सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते । अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ १५७ ॥ चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या । इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ १५८ ॥ एक एव खगो मानी चिरं जीवतु चातकः । प्रियते वा पिपासातो याचते वा पुरंदरम् ॥ १५९ ॥ भ्रातश्चातक कथय सखे कीदृक् पापमकारि । नवजलदादपि च पुटे यत्ते पतति न वारि ॥ १६० ॥ गर्जितबधिरीकृतककुभा किमपि कृतं न घनेन । कियती चातकचञ्चपुटी सापि भृता न जलेन ॥ १६१ ॥ दीनोन्नतचलपक्षतया बद्दपि लब्धमवस्तु । चातक यत्संभावनया किमपि यदस्ति तदस्तु ॥ १६२ ।। चातकस्य मुखच संपुटे नो पतन्ति यदि वारिबिन्दवः । सागरीकृतमहीतलस्य किं दोष एव जलदस्य दीयते ॥ १६३ ॥ रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता मम्भोदागमने वसन्ति बहवः सर्वेऽपि नैतादृशाः । केचिदृष्टिभिरार्द्रयन्ति धरणी गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १६४ ॥ अये वापीहंसा निजवसतिसंकोचपिशुनं कुरुध्वं मा चेतो वियति डयतो वीक्ष्य विहगान् । अमी सारङ्गास्ते जलदजलपानव्यसनिनो निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ १६५ ॥ स्फटिकविमलं पीत्वा तोयं घनोदरनिःसृतं पिबति न पयो मासानष्टौ बतापि न चातकः । मनसि जलदं स्मृत्वा स्मृत्वा तृषापि न [ बाध्यति] गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ।। १६६ ॥ १. 'भुवनमनीयव्रतभृतो' इति पाठः. २. 'बाधते' इति स्यात्. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy