SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्योक्तिमुक्तावली । कवलितमिह नालं कन्दलं चेह दृष्टमिह हि कुमुदकोशे पीतमम्भः सुशीतम् । इति विरति रात्रौ पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥ १४९ ॥ शतगुणपरिपाट्या पर्यटन्नन्तराले कुमुदकुवलयानां मध्यरात्रेऽपि खिन्नः । उपनदि दयितायाः कापि शब्दं निशम्य भ्रमति पुलिनपृष्ठे चक्रेवाको वराकः ॥ १५० ॥ दिनान्ते चक्रवाकेन प्रियाविरहभीरुणा । तथा निःश्वसितं तेन यथा नोच्छु सितं पुनः ॥ १५१ ॥ एकेनार्क प्रकटितरुषा पाटलेनास्तसंस्थं Acharya Shri Kailassagarsuri Gyanmandir पश्यन्त्यक्ष्णाश्रुजललुलितेनापरेण स्वकान्तम् । अश्छेदे दयितविरहाशङ्किनी चक्रवाकी उत्कूजति वसति मुह्यति याति तीरं तीरात्तरुं तरुतलात्पुनरेति वापीम् । वाप्यां न तिष्ठति न चात्ति मृणालखण्डं संकीर्णो रचयति रसौ नर्तकीय प्रगल्भा ॥ १५२ ॥ १. 'चक्रवच्चक्रवाकः' इति वा पाठ:. ७१ चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ १५३ ॥ अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥ १५४ ॥ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि समम् ॥ १५५ ॥ चक्रः पप्रच्छ पान्थं कथय मम सखे अस्ति स वापि देशो वस्तुं नो यत्र रात्रिः प्रचरति विहगायेति स प्रत्युवाच । नीते मेरौ समाप्ति कनकवितरणैः श्रीजगद्देवनाम्ना सूर्ये ह्यन्तर्हितेऽस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ १५६ ॥ ( इति चक्रवाकान्योक्तयः । ) For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy