________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
रमियाण पन्थियाणय पामर चोराण कुक्कडो कहइ |
रेर महवहवाहह पलायह पलयं गयार
यणी ॥ १३५ ॥
( इति कुकुटान्योक्तयः । )
अथ मयूरान्योक्तयः । मयूर तव माधुर्य स्वरेणैवोपलभ्यते । उरगग्रासनिस्त्रिंशकर्मणा दारुणो भवान् ॥ १३६ ॥
६९
एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः
काकोलूककपोतको किलकुलैरेकोऽपि पार्श्वस्थितः । केकी जति चेत्तदा विघटितव्यालावलीबन्धनः
सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १३७ ॥ केका कर्णामृतं ते कुसुमितकबरीकान्तिहाराः कलापाः कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसङ्घैः । विश्वद्वेषिद्विजिह्नस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः
कैः पुण्यैः प्राप्यमेतत्सकलमपि सखे चित्तवृत्तं मयूर ॥ १३८ ॥ वेगज्वलद्विपपुञ्ज महारवोऽयं
गर्जिर्न तीव्रतर हेतिरियं न शम्पा ।
For Private And Personal Use Only
दावाग्निधूमनिवहोऽयमये न मेघः
किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥ १३९ ॥ अये नीलग्रीव व कथय सखे तेऽद्य मुनयः परं तोषं येषां तव रवविलासो वितनुते । अमी दूरात्क्रूराः कणितमिदमाकर्ण्य सहसा
त्वरन्ते हन्तुं त्वामहह शबराः पुङ्गितशराः ॥ १४० ॥ हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिलाः सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरः स्थैरपि । एकेनापि तटस्थतेन दता श्रीखण्डनिस्तर्जनाद्यालानां च शिखण्डिता ननु महापाण्डित्यमुद्दण्डितम् ॥ १४१ ॥
१८