________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
काव्यमाला।
येनानन्दमये वसन्तसमये सौरभ्यहेलामिल
पृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः । आः कालस्य वशेन कोकिलयुवा सोऽप्यद्य सर्वा दिशः
खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुर्वावति ॥ १० ॥ कचिझिल्लीनादः क्वचिदतुलकाकोलकलहः
क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः । क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना
कथंकारं तारं रसति चकितः कोकिलयुवा ॥ १०१ ।। उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि __ कां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटवः
क्रीडकोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ १०२ ॥ यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि __ व्यग्राणि प्रथयन्ति मन्मथकथां चित्तानि चैत्रोत्सवे । रे रे काक वराक साकममुना पुंस्कोकिलस्याधुना स्पर्धाबन्धमुपेयुषस्तव नु किं लज्जापि नोज्जागरा ॥ १०३ ॥ हे कोकिल क्षपय कालमलालसत्वं
वाचंयमत्वमवलम्ब्य कियदिनानि । श्रीखण्डशैलसुहृदः प्रसरन्ति याव
ते वायवः सहचराः सहकारलक्ष्म्याः ॥ १०४ ॥ मा कलकण्ठ कलध्वनिमिह मिहिरमहीरुहस्य मूर्ध्नि कृथाः । मूलमिमं कथयिष्यति जडो जनस्तव गिरां सुतराम् ॥ १०५ ।।
रे बालकोकिल करीरमरुस्थलीषु
किं दुर्विदग्धमधुरध्वनिमातनोषि। अन्यः स कोऽपि सहकारतरुप्रदेशो
राजन्ति यत्र तव विभ्रमभाषितानि ॥ १०६ ॥ १ अर्कवृक्षस्य. २ मूर्को लोकस्तव प्रधानकारणमिममर्के कथयिष्यति.
For Private And Personal Use Only