SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । कलकण्ठ यथा शोभा सहकारे भवद्भिरः । खदिरे वा पलाशे वा किं तथा स्याद्विचारय ॥ ८९ ॥ पक्कं चूतफलं भुक्त्वा गर्वान्नायाति कोकिलः । पीत्वा कर्दमपानीयं भेको भकभकायते ॥ ९० ॥ साधु साधुकृतं मौनं कोकिले प्रावृषि त्वया । दर्दुरा यत्र भाषन्ते कथं तव सुभाषितम् ॥ ९१ ॥ न विना मधुमासेन अ ( ब ) न्तरं पिककाकयोः । वसन्ते च पुनः प्राप्ते काकः काकः पिकः पिकः ॥ ९२ ॥ रसालशिखरासीनाः सन्तु सन्तु पतत्रिणः । तन्मञ्जरीरसास्वादविन्दुरेकः कुमुखः ॥ ९३ ॥ गुणिनं गुणयति गुणवानितरस्तत्र वराकः । सहकाराङ्कुररसिकः कोकिल एव न काकः ॥ ९४ ॥ रे रे कोकिल मा भज मौनं किंचिदुदञ्च पञ्चमरागम् | नो चेत्वामिह को जानीते काककदम्बकपिहिते चूते ॥ ९५ ॥ अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन खलु कोकिल कोमलेन । एते हि दैववशतस्तदभिन्नवर्ण त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ९६ ॥ कोकिल कलप्रलापैरलमलमालोकसे रसाले किम् । शरनिकरभरितशरधिः शबरः सरतीह परिसरे सधनुः ॥ ९७ ॥ तवैतद्वाचि माधुर्य जातं कोकिल कृत्रिमम् । यैः पोषितोऽसि तानेव जातपक्षो जहासि यत् ॥ ९८ ॥ मूकीभूय तमेव कोकिल मधुं बन्धुं प्रतीक्षख हे हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् । यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसस्पांसूत्तम्भभृतो निदाघदिवसाः संतापसंदायिनः ॥ ९९ ॥ १ 'दैवहतकाः' इति पाठः . For Private And Personal Use Only ६३
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy