________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
धिक्तव शुक पठनव्यसनं जातं पञ्जरवासः । वरमन्ये द्विजराजगणस्तिष्ठति यः सुविलासः ॥ ६६ ॥ अये कीरश्रेणीपरिवृढ वृथा वासरशतं
किमर्थ व्यर्थ त्वं क्षपयसि पलाशे रभसतः । यदा पुष्पारम्भे मुखमलिनि किं किंशुकतरो___ स्तदेवं विज्ञातं फलपरिचयो दुर्लभ इति ।। ६७ ॥ उच्चरेकतरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
पक्कं शालिवनं विहाय जडधीस्तां नालिकेरी गतः । तत्रारुह्य बुभुक्षितेन मनसारम्भः कृतो भेदने
ह्यायासो ननु केवलं विगलितो चञ्चुर्गता कूर्चताम् ॥ ६८ ॥ इदमकटु कपाटं जर्जरः पञ्जरोऽयं ।
विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा । शुक मुकुलितजिह्व स्थीयतां किं वचोभि
स्तव वचनविनोदेऽनादरः पामराणाम् ॥ ६९ ॥ सत्साङ्गत्यमवाप्य यः पुरवने नानारसास्वादव___ कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने । दैवेनास्फुटवाक्प्रपञ्चविहितश्रोत्रस्य तस्याटवीं
प्राप्तस्यात्मसभाप्रगल्भकविषु स्यान्मौनमेवोचितम् ॥ ७० ॥ भ्रातः कीर कठोरचञ्चुकषणक्रोधायितैः कूजितैः
किं माधुर्यनिषिक्तसूक्तिविशदः कण्ठावटुः शोष्यते । श्रीमद्राघवनामधेयमनिशं त्वं ब्रूहि मुक्तिप्रदं
सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते ॥ ७१ ॥ अमुष्मिन्नुद्याने विहग खल एष प्रतिफलं
विलोलः काकोलः क्वणति किल यावत्पटुतरम् । सखे तावत्कीर द्रढय हृदि वाचंयमकलां
न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ७२ ॥
For Private And Personal Use Only