________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
पक्षौ तावदतीन्द्रधामधवलौ धन्या गतेश्चारुता
नादः सादरसुन्दराश्रुतिसुखः स्थानं सरो मानसम् । नीरक्षीरविवेचनं च सहजं श्लाघ्यो गुणानां गणः
शेवालाङ्कुरपत्रभोजनमिदं नाहं सहे हंस हे ॥ ४८ ॥ हहो हंस महामते बलिभुजां मध्ये स्थिति मा कृथा
लोकस्त्वां सितकाकमेव मनुते मीमांसते नो गतिम् । नो जानाति विमिश्रदुग्धपयसां दुग्धग्रहे नैपुणं
घूकैः संप्रहरस्यते तव शिरस्त्वं धाम तूर्णं वन ॥ ४९ ॥ तटमनुतटं पद्मे पझे निवेशितमानसं
प्रतिकमलिनीपत्रच्छायं क्षणं क्षणमासिनम् । नयनसलिलैरुष्णैः कोष्णाः कृता जलवीचयो
जलदमलिनां हंसेनाशां विलोक्य गमिष्यता ॥ ५० ॥ पीतं येन पुरा पुरन्दरपुरस्त्रीवारिकेलिक्षल
न्मन्दाराङ्कुरकर्णपूरसुरभि खर्गापगायाः पयः । पातुं पल्वलवारि पामरवधूपादार्पणप्रोच्छल
त्पङ्कातङ्कितभेकभिन्नमघृणो हंसः किमाकाङ्क्षति ॥ ५१ ॥ सन्त्यन्यत्रापि वीचीचयचकितचलत्क्रौञ्चचञ्चप्रभिन्न
प्रोन्निद्राम्भोजरेणुप्रकरविरचनाहारिवारिप्रवाहाः । किंतु खच्छाशयत्वं जगति न सुलभं तेन गत्वापि दूरे बद्धोत्कण्ठोऽनुरागादनुसरति सरो मानसं राजहंसः ॥ ५२ ॥
ये वर्धिताः कनकपङ्कजरेणुमध्ये ___ मन्दाकिनीविमलनीरतरङ्गभङ्गैः । ते सांप्रतं विधिवशात्खलु राजहंसाः
शेवालजालजटिलं जलमाश्रयन्ति ॥ ५३ ॥ मैवं मंस्थाः स्थितिपदमहं मत्त एवाम्बुलाभो
मय्यायत्तं जठरभरणं मत्कृता सस्क्रिया वा ।
For Private And Personal Use Only