________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
अन्योक्तिमुक्तावली। अन्यत्रानृजुवम॑ता द्विरसना वक्रे विषं वीक्षणं
सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम् ॥६६॥ भेकेन कणता सरोषपरुषं यत्कृष्णसर्पानने
दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः । यच्चाधोमुखमक्षिणी पिदधता नागेन तूष्णीं स्थितं तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि विस्फूर्जितम् ॥६७॥
(इति सर्पान्योक्तयः।) अथ शेषनागस्य। इलातलभराक्रान्तग्रीवां मा शेष वक्रय । त्वयि दुःखिनि चैकस्मिजीवलोकः सदा सुखी ॥ ६८ ॥ युक्तोऽसि भुवनभारे मा वक्रां वितनु कन्धरां शेष । त्वय्येकस्मिन्दुःखिनि सुखितानि भवन्ति भुवनानि ॥ ६९ ॥
..
........
....
........
....
.............
............................. ॥ ७० ॥
(इति शेषनागान्योतयः ।। अथ जलचराधिकारपद्धतौ प्रथमं मत्स्यस्यान्योक्तयः। शफर संहर चञ्चलतामियं चिरमगाधजलप्रणयी भव । इह हि कूजितमञ्जुलजालके वसति तत्र बकोटकुटुम्बकम् ॥७१ ॥
कैवर्तकर्कशकरग्रहणच्युतोऽपि
जाले पुनर्निपतितः शफरो वराकः । जालात्पुनर्विगलितो गलितो बकेन वामे विधौ क नु सुखं व्यसनागमेषु ।। ७२ ॥
अथ दर्दुरान्योक्तयः। किं नाम दर्दुर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव । एतानि केलिरसितानि सितच्छदाना
माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥ ७३ ।।
For Private And Personal Use Only