SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ काव्यमाला । अथ भषणान्योक्तयः। आबद्धकृत्रिमसटाविकटांसवृत्ति रारोपितो मृगपतेः पदवीं यदि श्वा । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ ५९ ॥ खल्पनायुवसावशेषमलिनं निर्मीसमप्यस्थिकं श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये । सिंहो जम्बुकमकमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ६० ॥ पिब पयः प्रसर क्षितिपान्तिकं कलय कांचन काञ्चनशृङ्खलाम् । इदमवद्यतमं तु यदीहसे भषण संप्रति केसरिणस्तुलाम् ॥ ६१ ॥ (इति भषणान्योक्तयः ।) अथ सर्पान्योक्तयः। यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव । आशीविषः स दैवाड्डोम्बकरण्डस्थितिं सहते ॥ ६२ ।। दुश्चरितैरेव निजैर्भवति दुरात्मा हि शङ्कितो नित्यम् । दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति ॥ ६३ ॥ अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु । विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ६४ ॥ रे रे सर्प विमुञ्च दर्पमसमं किं स्फारफूत्कारतो विश्वं भापयसे क्वचित्कुरु बिले स्थानं चिरं नन्दतु । नो चेप्रौढगरुत्स्फुरत्तरमरुध्याधूतपृथ्वीधर स्तायो भक्षयितुं समेति झगिति त्वामद्य विद्वेषवान् ॥ ६५ ॥ मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो निर्यत्नोपचितैश्च वृत्तिरनिलैरेकत्र चर्येशी। १. 'भित्तिः' इति वा पाठः, For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy