________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। यथा भनः पन्था परुषविषमग्रावगहनो
गलीनां नाङ्गानि स्पृशति च यथा सारथिरथम् । यथा चैते दृप्ताः खवलितभुवो यान्ति वृषभा
स्तथा दूरीभूतः स खलु धवलो नूनमधुना ॥ ५३ ॥ ऊढा येन महाधुरा सविषमा मार्गे सदैकाकिना
सोढो येन कदाचिदेव न नगे गोष्ठेन शण्ढध्वनिः । आसीनस्य गवाङ्गणैकतिलकस्तस्यैव संप्रत्यहो
धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते ॥ ५४ ॥ अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्मोन्नते ___ ऊढा येन वृषेण धूर्बलवता यूना द्वितीयेन या । तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो
रथ्याभड्डुलकैः समेत्य बहुभिर्नाकृष्यतेऽन्यैर्वृषैः ॥ ५५ ॥ यस्यादौ व्रजमण्डनस्य वहतो गुर्वी धुरं धैर्यतो ।
धौरेयैः प्रगुणैः कृतो न युगपत्स्कन्धः समस्तैरपि । तस्यैव श्लथकम्बलस्य धवलस्योत्थापने सांप्रतं द्रङ्गेऽत्रैव जरावशादिततनोर्गोः पुण्यमुद्धोष्यते ॥ ५६ ॥ एतानि बालधवल प्रविहाय कामं
गोष्ठाङ्गणे तरलतर्णकचेष्टितानि । स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो
नेतव्यतामुपगतोऽस्ति तवैष भारः ॥ ५७ ॥ न लिखसि खुरैः क्षोणीपृष्ठं न नर्दसि सादरं
प्रकृतिपुरुषं प्राप्याप्यने न कुप्यसि गोवेरम् । वहति च धुरं धुर्यो धैर्यादनुद्धतकन्धरो जगति गुणिनः कार्यौदार्यात्परानतिशेरते ॥ ५८ ॥
(इति वृषभान्योक्तयः ।)
१. 'प्रगुणीकृतो' इति वा पाठः. २. 'गोऽन्तरं' इति वा पादः.
For Private And Personal Use Only