SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। सोऽयं संप्रति याति बालकरभः क्षीणोद्यमः शमतां मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु ॥ ३८ ॥ पीलूनां फलवत्कषायमधुरं रोमन्थयित्वा मरौ शाखाग्रं यदखादि चारु करभीवकार्पितं प्रेमतः । तत्स्मृत्वा करभेण खेदविधुरं दीर्घ तथा फूत्कृतं प्राणानामभवत्तदेव सहसा प्रस्थानतूर्य यथा ॥ ३९ ॥ दुष्प्रापमम्बु पवनः परुषोऽतितापी छायाभूतो न तरवः फलभारनम्राः । इत्थं सखे करभ वच्मि भवन्तमुच्चैः का संगतिः खलु मरौ रमणीयतायाः ॥ ४० ॥ अस्याननस्य भवतः खलु कोटिरेषा कण्टारिका यदि भवेदविशीर्णपर्णा । योग्याः कथं करभकल्पतरोलेताया स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ४१ ॥ दासेरको रसत्येष युक्तं भारेऽधिरोहति । उत्तार्यमाणेऽपि पुनर्यत्तत्र किमु कुर्महे ॥ ४२ ॥ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । कुरु परिचितैः पीलोः पत्रैधृति मरुगोचरै र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ४३ ॥ करम किमिदं दीर्घश्वासैर्दुनोषि शरीरकं विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् । चर किसलयं पीलोः स्वच्छो विमुञ्च मधुस्पृहां पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ ४४ ॥ (इति करभान्योक्तयः।) For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy