________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
काव्यमाला ।
न भवति मिथुनानां प्रेमलावण्ययोगा
जनयति सुखमन्तः कस्यचित्कोऽपि दृष्टः । पतति झटिति दृष्टिर्मुग्धदासेरकाणां
जरठभुरठवल्लीपिञ्जरासु स्थलीषु ॥ ३२ ॥ रूक्षं वपुर्न च विलोचनहारि रूपं
न श्रोत्रयोः सुखदमारटितं कदाचित् । इत्थं न साधु तव किंचिदिदं तु साधु __ तुच्छे रतिः करभ कण्टकिनि द्रुमे यत् ॥ ३३ ॥ वक्रग्रीवमुदीक्षसे किमपरं बाष्पाम्बुपूर्णेक्षणः
कः खेदः करभाधुना तृणलवैः संतर्पयैतद्वपुः । कान्तान्तःस्फुरदोष्ठसंपुटभुवो ये लीलयान्दोलिता
मुक्तास्ते नवनीलकन्दलदलश्यामाः शमीपल्लवाः ॥ ३४ ॥ आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लङ्घयतां
गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे । दत्वा पीलुशमीकरीरकवलाखेनाञ्चलेनादरा
दुन्मृष्टं करभस्य केसरसटाभारामलमं रजः ॥ ३५ ॥ चर करभ यथेष्टं सन्ति शष्पाण्यरण्ये
बहुकुसुमसमृद्धाः पीलवश्च स्थलीषु । यदि गणयसि वाक्यं बन्धुवर्गस्य दूरा___ परिहर करवीरं मृत्युरेवैष सद्यः ॥ ३६॥ चिन्तां मुञ्च गृहाण पल्लवमिमं प्लक्षस्य शालस्य वा
गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब । जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो
रम्याः पीलुशमीकरीरबदरीकूजत्कपोताकुलाः ।। ३७ ।। यस्यासीन्नवपीलुपत्रबदरग्रासोऽपि संतुष्टये
दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।
For Private And Personal Use Only