________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
अन्योक्तिमुक्तावली ।
अथ शशस्य। सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः ।। जग्रास साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ २५ ॥
____ अथ जम्बुकस्य । परिहीने सिंहेन वने फेत्कुरु रे फेरण्ड । तद्गन्धेऽपि यदि केदं व भवानुन्मुखतुण्ड ॥ २६ ॥
अथ करभान्योक्तयः । वपुर्विषमसंस्थानं कर्णज्वरकरो रवः । करभस्याशुगत्यैव छादिता दोषसंहतिः ॥ २७ ॥ कुमुदशबलैः फुल्लाम्भोजैः सरोभिरलंकृतां ___ मरकतमणिश्यामां शष्पैविहाय वनस्थलीम् । स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
परिचयरतिः सा दुर्वारा न सा गुणवैरिता ।। २८ ।। यस्मिन्नुच्चैर्विषमगहनान्तर्गता खादुवल्ली
खेच्छं भुक्ता सरलितगलेनात्मचेतोनुलमा । तत्तारुण्यं करभ गलितं कुत्रचित्प्राग्विलासो __ यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥२९॥ करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया
व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः । चलकिसलयैः सोऽपीदानी प्ररूढनवाङ्कुरः
करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥३०॥ सरलितगलनाली कन्धरां धत्स्व धैर्या
स्करभ लघुशमीनां प्रासमेकं गृहाण । सरसमधुरपत्रास्ताः कुतः पीलुजात्यो
हरिततरुकरीरे रे मरौ याः प्ररूढाः ॥ ३१ ॥ 1. 'विमलसलिलैः' इति वा पाठः.
For Private And Personal Use Only