SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति ीरे वेत्रलतावितानगहने कष्टप्रवेशक्रमः । हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं भूभृत्कटकस्थितिव्यसनिना व्यर्थ खुराः शातिताः॥१८॥ सारङ्गो न लतागृहेषु रमते नो पांशुले भूतले नो रम्यासु वनोपकण्ठहरितच्छायासु शीताखपि । तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसी शैलेन्द्रोदरकन्दरासु गतभीः शृङ्गावशेषः स्थितः ॥ १९॥ वसन्त्यरण्येषु चरन्ति दूर्वी पिबन्ति तोयान्यपरिग्रहाणि । तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥२०॥ आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया ___ पल्ली बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् । यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ २१ ॥ स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता भङ्गप्रस्नुतदुग्धविन्दुमधुरा शालेर्नवा मञ्जरी । निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथस्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ २२ ॥ सेयं स्थली नवतृणाङ्कुरजालमेत___ सेयं मृगीति हृदि जातमदः कुरङ्गः । नैवं तु वेत्ति यदिहान्तरितो लताभि रायाति सज्जितकठोरशरः किरातः ॥ २३ ॥ रोमन्थमारचय मन्थरमेत्य निद्रां ___ मुञ्च श्रमं तदनु संचर रे यथेच्छम् । दूरे स पामरजनो मुनयः किलते निष्कारणं हरिणपोत विभेषि कस्मात् ॥ २४ ॥ (इति हरिणान्योक्तयः।) For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy