SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। इह किं कुरङ्गशावक केदारे कलममञ्जरी त्यजसि । तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम् ॥ ४ ॥ नैतास्ता मलयाद्रिकाननभुवः खच्छस्रवन्निसरा स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि । रूक्षध्वासपरिग्रहो मरुरयं स्फारीभवन्नातप स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ ५ ॥ स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं स्तृषार्तः सारङ्गो विरमति न खिन्नेऽपि मनसि । अजानानस्तत्त्वं न स मृगयतेऽन्यत्र सरसी. __ मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ६ ॥ अयि कुरङ्ग कुरङ्गमविक्रमैस्त्यज वनं जवनं गमनं कुरु । इह वने हि वनेचरनायकाः सुरभिलोहितलोहितसायकाः ॥ ७ ॥ छित्त्वा पाशमपास्य कूटरचनां भवा बलाद्वागुरां पर्यन्तामिशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादेतिजवादुप्लुत्य धावन्मृगः - कूपान्तःपतितः करोतु विमुखे किंवा विधौ पौरुषम् ॥ ८ ॥ असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः । गणयति न तन्मायातोयं हतः सलिलाशया भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥ ९॥ द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे । विदधति हठायाधानां ते मनागपि नातां कठिनमनसामेषामेते विलोकितविभ्रमाः ॥ १० ॥ १. 'निःसृत्य' इति वा पाठः. २. 'दतिरयादुत्प्लुत्य धावन्' इति वा पाठः. ३. 'क रोति विमुखे' इति वा पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy