________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। गजानामास्थानं मदसलिलजम्बालितभुवां
तदेको विन्ध्यादेविपिनमथवा भूपसदनम् ॥ ९४ ॥ लाङ्गूलचालनमधश्वरणावपातं __ भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुंगवस्तु
__ धीरं विलोकयति चाटुशतैश्च भुते ॥ ९५ ॥ निदाघे दाघातः प्रचुरतरतृष्णातुरमनाः
सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पक्के ममस्तटनिकटवर्ती ननु यथा
न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ ९६ ॥ यदि नाम सर्वपकणं शक्नोति करिः करेण नादातुम् । इयतैव तस्य ननु किं पराक्रमग्लानिरिह जाता ॥ ९७ ॥
यदि काको गजेन्द्रस्य विष्ठां कुर्वीत मूर्धनि ।
कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९८ ॥ जइ मण्डलेण भसिउं हत्थिं दद्दूण रायमग्गम्मि । ता किं गयस्स जुत्तं सुणएण समं कलिं काउम् ॥ ९९ ॥ सूरो सि परदलभञ्जणो सि गरुओ सि भद्दजाओ सि । दाणेण विणा कुञ्जर न सोहए दन्तनिकरडी ॥ १० ॥
(इति गजान्योक्तयः ।) अथ हरिणान्योक्तयः।
..."" ॥ १॥ दूर्वाकरतृणाहारा धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ २॥ कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः । क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ ३ ॥
For Private And Personal Use Only