SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ अन्योक्तिमुक्तावली । नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः सिंहेनापि न लविता किमपरं यस्योद्धरा पद्धतिः । कष्टं सोऽपि कदर्थ्यते करिवरः स्फारारवैः फेरवै रापातालगभीरपङ्कपटलीमनोऽद्य भमोद्यमः ॥ ६५ ॥ पङ्कममकरिणा न विपतिः पश्यतां विधिबलं प्रतिकूलम् । यत्स शुद्धधरणीधरसाहसा शूकराजप्रभ एव वियत्सा ॥६६॥ निमग्नः पक्केऽस्मिन्ननुभव करीन्द्राधिप दशा___ मभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः । वराहे गोमायौ मृगपरिषदि श्वापदकुले __करिष्यन्कार्पण्यं किमुत महिमानं गमयसि ॥ ६७ ॥ सुदुःस्थितः स्थूलमरुस्थलीषु दीनां दशां दैववशात्प्रपन्नः । पुरातनाहारविहारनामान्करी करीरेऽपि करं करोति ॥ ६८ ॥ यूथान्यग्रेतनानि प्रचुरबलभृतो बद्धवैरा मृगेन्द्रा मूलादाकृष्यमाणाः सपदि तटरुहो भूरुहा निःसरन्ति । तं दृष्ट्वा गृह्यमाणं हतविधिमनिशं भिल्लपल्यामधीशं हस्तालम्बाय केषां कलयति वदनं पङ्कममः करीन्द्रः ॥ ६९ ॥ भो भोः करीन्द्र दिवसानि कियन्ति ताव___ दस्मिन्मरौ समतिवाहय कुत्रचित्त्वम् । रेवाजलैनिजकरेणुकरप्रमुक्तै भूयः शमं गमयितासि निदाघदाहम् ॥ ७० ॥ रेवापयःकिसलयानि च सल्लकीनां वन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा । किं ताम्यसि द्विप गतोऽसि वशं करिण्याः स्नेहो हि कारणमनर्थपरम्परायाः ॥ ७१ ॥ दन्ते न्यस्तकरः प्रलम्बितशिराः संमील्य नेत्रद्वयं किं त्वं वारण खिद्यसे वनितया को नाम नो वञ्चितः । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy