SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । जो करिवराण कुम्भे पायन्दाऊण मुत्तिए दलइ | सो सीहो विहिवसओ जम्बुयपयघट्टणं सहइ ॥ अथ गजान्योक्तयः | आकृष्यन्ते करिणः पङ्कनिमग्ना महाद्विपैरेव । प्राप्तापदो महान्त उद्धरणीया महापुंभिः ॥ ५२ ॥ सन्त एव सतां नित्यमापत्तरणहेतवः । For Private And Personal Use Only ५१ ॥ ( इति सिंहान्योक्तयः । ) गजानां पङ्कमग्नानां गजा एव धुरंधराः || ५३ ॥ नीवारप्रसवान्नमुष्टिकवलैयों वर्धितः शैशवे पीतं येन सरोजपत्रपुटके होमावशेषं पयः । तं पश्चान्मदमन्थरा लिवलयव्यालुप्तगण्डं गजं सानन्दं समयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ५४ ॥ कर्णे चामरचारुकम्बुकलिका कण्ठे मणीनां गणः सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिकेकिङ्किणी लब्धपवाहनेन करिणा बद्धेन भूषाविधि स्तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ५५ ॥ बन्यो हस्ती स्फटिकटिते भित्तिभागे स्वबिम्बं दृष्ट्वा कश्चित्प्रतिगजमिव त्वद्विषां मन्दिरेषु । हत्वा कोपाद्गुलितदशनस्तं पुनर्वीक्षमाणो मन्दं मन्दं स्ष्टशति करिणीशङ्कया भोजराज ॥ ५६ ॥ नीता कुम्भस्थलकठिनता कामिनीनामुरोनैः स्तेयं कृत्वा धृतमणिगणैः कञ्चुकैरावृतैश्च । इत्याख्यातुं नरवरगृहद्वारि कुम्भीन्द्रडिम्भाः शुण्डादण्डैर्वपुषि बहलां धूलिमुद्धूलयन्ति ॥ ५७ ॥ आधोरणाङ्कुश भयाद्द्वजकुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् । ३१
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy