________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
सोऽन्यः कोऽपि घनाघनध्वनिधनः पारीन्द्रगुञ्जारवः
शुष्यद्गण्डमलोलपुच्छमचलत्कर्ण गजैर्यः श्रुतः ॥ ४२ ॥ रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह
न्वन्यानामवलम्बनं वनमिदं भङ्गं यदुत्कण्ठसे । दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधर
प्रस्थास्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥ ४३ ॥ यस्यावन्ध्यरुषः प्रतापवसते देन धैर्यद्रुहः
शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना
करेत्येव करेण केसरसटाभारं जरत्कुञ्जरः ॥ ४४ ॥ यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं ___ नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् । तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थली.
भृङ्गः केसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ ४५ ।। निद्रामुद्रितलोचनो मृगपतिर्यावद्गृहां सेवते
तावत्खैरममी चरन्तु हरिणाः स्वच्छन्दसंचारिणः । उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो __नादे श्रोतृपथं गते हतधियः सन्त्येव दीर्घा दिशः ॥ ४६ ॥ यद्यपि च दैवयोगासिंहः पतितोऽपि दुस्तरे कूपे । तदपि हि वाञ्छति सततं करिकुम्भविदारणं मनसि ॥ ४७ ॥ यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः । तदपि न कुप्यति सिंहोऽप्यसदृशपुरुषेषु कः कोपः ॥ ४८ ।।
सदा मन्दमदस्यन्दिमातङ्गपिशिताशनः ।
असंपन्नेप्सिताहारस्तृणान्यत्ति न केसरी ॥ ४९॥ हेलानिद्दलियगयन्दकुम्भपयडीपयावपसरस्स । सीहस्य मिएण समं न विग्गहो नेव संधानम् ॥ ५० ॥
For Private And Personal Use Only