________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
___ अन्योक्तिमुक्तावली।
२९ मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः किं जीणे तृणमत्ति मानमहतामग्रेसरः केसरी ॥ ३३ ॥ शैलशिखानिकुञ्जशयितस्य हरेः श्रवणे
जीर्णतृणं करेण विदधाति कपिश्चपलः । क्षुद्रवधापवादपरिहारमतेः सहत
__ स्तस्य गतं बलं किमधुना द्विपयूथभिदः ॥ ३४ ॥ येनानगलकालकेलिदलितप्रत्यग्रकादम्बिनी___ धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम् । सोऽयं शृङ्गनिपातभग्नचरणः स्फारस्फुरत्फेरवीफेत्कारैः कुपितोऽपि घृष्यति मुहुः पाणी मृगग्रामणीः ॥ ३५ ॥ अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने । मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ॥ ३६ ॥ जीर्णोऽपि क्रमहीनोऽपि कृशोऽपि यदि केसरी । तथापि यूथनाथस्य शङ्कातङ्काय कल्पते ॥ ३७ ।। खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् ।
प्राप्नोति नखभङ्गं वा मूषको वा फलं भवेत् ॥ ३८ ॥ सिंहः करोति विक्रममलिकुलझङ्कारभूषिते करिणि ।
न पुनर्नखमुखविलिखितभूतलकुहरस्थिते नकुले ॥ ३९ ॥ गम्यते यदि मृगेन्द्रमन्दिरं प्राप्यते हि गजदन्तमौक्तिकम् । जम्बुकालयगतेऽपि लभ्यते वत्सपुच्छखुरचर्मखण्डकम् ॥ ४० ॥ अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्ष
मा काक व्याकुलो भूस्तरुशिरसि शवक्रव्यलेशानशानः । धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ॥ ४१ ॥ ग्रामाणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः
फेत्कारध्वनिमुद्रिन्ति बहवः संभूय गोमायवः ।
For Private And Personal Use Only