________________
Shri Mahavir Jain Aradhana Kendra
२८
www.kobatirth.org
काव्यमाला |
तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ २६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अद्यापि न स्फुरति केसरभारलक्ष्मीर्न प्रेङ्खति ध्वनितमद्रिगुहान्तरेषु । मास्तथापि करिणो हरिणाधिपस्य
पश्यन्ति भीतमनसः पदवीं वनेषु ॥ २७ ॥ कोलः केलिमलंकरोतु करिणः क्रीडन्तु कान्तासखाः
कासारे वनकासराः सरभसं मज्जत्विह खेच्छया । अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽभिरूपां गतिं
कान्तारान्तरसंचरिष्णुरधुना पञ्चाननो वर्तते ॥ २८ ॥ मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः
सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाको टेरिभारेः शनैः
सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥ २९ ॥ यथेष्टं चेष्टध्वं मदमलिनगण्डाः करटिन - स्टान्यद्रेर्मन्दं निकपत विषाणैश्च महिषाः ।
सरागं सारङ्गाः सह सहचरीभिर्विचरत
प्रचारः सिंहानामिह हि विधिना हन्त विहतः ॥ ३० ॥ विश्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः । इत्थं न किंचिदपि साधु मृगाधिपस्य तेजस्तु तत्स्फुरति यस्य जगद्वराकम् ३१ सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः
शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् ।
विस्फूर्जद्विकटाटवीगजघटा कुम्भकसंचूर्णन
व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः || ३२ ॥ क्षुत्क्षामोऽपि जरान्वितोऽपि शिथिलप्राणोऽपि कष्टां दशामापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।
For Private And Personal Use Only