SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। दृष्टे मयि प्रचलते यदि पादमेकं वन्ध्या भवेद्विजननी मम सिंहसूनोः ॥ १८ ॥ नाभ्यासो नभसः क्रमे कररुहेर्नकोऽयमालम्बितं __ घण्टालत्वमभून्न भूधरगुहां पर्यकभूलङ्घने । पीनस्तन्यमनादराद्गलितया दृष्ट्वैव सिंहीशिशो ग्दानाद्रवनिमगाः करटिनां गण्डेषु गण्डूषिता ॥ १९॥ हरिरलसविलोचनः सहेलं बलमवलोक्य पुनर्जगाम निद्राम् । अधिगतपतिविक्रमास्तभीतिर्न तु वनितास्य विलोकयांचकार ॥२०॥ बालाया नवसंगमे निपुणतां प्रेक्ष्यान्यथाशङ्किनो ___ भर्तुश्चित्तमवेक्ष्य पङ्कजमुखी तत्पार्श्वकुड्डयेऽलिखत् । एकं भद्रमतङ्गजं तदुपरि क्रोधात्पतन्तं शिशु सिंहीगर्भविनिःसृतार्धवपुषं दृष्ट्वा स हृष्टोऽभवत् ॥ २१ ॥ एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते क्रोष्टा क्रन्दति वलगते च शशको वेगाद्रुरुर्धावति । निःशकैः करिपोतकैगिरितटश्चोत्पाट्यते लीलया __हो सिंह विना त्वया हि विपिने कीदृग्दशा वर्तते ॥ २२ ॥ कः कः कुत्र न घुघुरायितधुरीघोरो घुरेच्छूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २३ ॥ नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जितवित्तस्य स्वयमेव मृगेन्द्रता ॥ २४ ॥ एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे । सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ २५ ॥ नास्योच्छ्रायवती तनुर्न दशनौ दीर्षों न दीर्घः करः सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते । १. 'निःशङ्कः करिपोतकस्तरुलतानुन्मोटते लीलया' इति वा पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy