________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अथ स्थलचराधिकारपद्धतौ पूर्व सिंहान्योक्तयः । सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ८ ॥
मृगेन्द्रं वा मृगारिं वा सिंहं व्याहरतां जनाः । तस्य द्वयमपि ब्रीडा क्रीडादलितदन्तिनः ।। ९ ॥ मत्तेभकुम्भनिर्भेदकठोरनखराशनिः । मृगारिरिति नामैव लघुतामेति केसरी ॥ १० ॥ एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः । स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ।। ११ ॥ मृगैर्नष्टं शशैर्लीनं वराहैर्वलितं रुषा ।
हयानां हेषितं श्रुत्वा सिंहै: पूर्ववदासितम् ॥ १२ ॥ अन्वेषयति मदान्धद्विरदमदाम्बुसिक्तमवनितलम् । परिणतगर्भभराता सिंहवधूः शल्लकीविपिने ॥ १३ ॥ अयि भामिनि गर्भादलं समागमैन मया हि नागेन्द्रेण । मद्गन्धाबहिरेष्यति तूर्णमपूर्णः कुमारस्ते ॥ १४ ॥ धीरध्वनिभिरलं ते नीरद मयि मासिको गर्भः। उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ १५ ॥
तावद्गर्जन्ति मातङ्गा वने मदभरालसाः । लीलोल्लालितलाङ्गलो यावन्नायाति केसरी ॥ १६ ॥ अन्तर्बलान्यहममुष्य मृगाधिपस्य
वाचा निगद्य कथमद्य लघु करोमि । जानन्ति किं न करजक्षतकुम्भिकुम्भा
दामुक्तमौक्तिकमयानि दिगन्तराणि ॥ १७ ॥ घण्टास्वनो नुदतु वा मदवारिधाराः
कामं श्रवन्तु बहुधा गजराजयूथे ।
१, 'हरिम्' इति वा पाठः.
For Private And Personal Use Only