________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
धिग्जातिं द्रुमसंकथासु यदयं कल्पद्रुमोऽपि द्रुमः || १९९ ॥ अथ पारिजातस्य ।
परिमलसुरभितनभसो बहवः कनकाद्रिपरिसरे तरवः । तदपि सुराणां चेतसि निवसितमिह पारिजातेन ॥ २०० ॥ इति श्रीमत्तपागच्छाधिराज-श्रीगौतमगणधरोपमगुणसमाज-सकलभट्टारकवृन्दवृन्दारकवृन्दारक राज-परमगुरु भट्टारकी १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य पण्डितहंस विजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां देवान्योक्तिनिरूपकः प्रथमः परिच्छेदः ॥
द्वितीयः परिच्छेदः । श्रेयः श्रियां विलसनोल्लसदालयस्य यस्येशितुः शिरसि भान्ति फणात्फणीनाम् । किं मङ्गिनीसमुदयः कृपया धृतोऽयं संसारसागरपतज्जनतावनाय ॥ १ ॥
श्रेयः श्रियामाश्रयमपि यदीयमङ्कच्छलतो मृगारिः । समाश्रितो वक्तमिदं मदीयं पशुत्वमश्लाघ्यमपाकरोतु ॥ २ ॥ स्तोष्ये श्रीविजयानन्दस्वगुरुं गरिमाम्बुधिम् । सर्ववर्यवराचार्यमौलिमौलिमणिप्रभम् ॥ ३ ॥ अथ प्रतिद्वारवृत्तानि । द्वितीयपरिच्छेदेऽथ प्रतिद्वाराणि प्रस्फुटम् । कोमेला मलवृत्तानि निगद्यन्ते यथाक्रमम् ॥ ४ ॥ सिंहस्यान्योक्तयो ज्ञेया गजस्यान्योक्तयस्तथा । मृगान्योक्तिः शशान्योक्तिः फेरूक्तिः करभोक्तयः ॥ ५ ॥ वृषभान्योक्तयस्तद्वद्भषणान्योक्तयस्ततः ।
सर्पान्योक्तिस्तथैवोक्ता शेषनागोक्तयः पुनः ॥ ६ ॥
अथोच्येते जलधरप्रतिद्वारद्वयं क्रमात् ।
मत्स्यस्यान्योक्यो मुख्या मण्डूकान्योक्तयो मताः ॥ ७ ॥
For Private And Personal Use Only
२५
१. अयं श्रीशब्दः पूज्यत्वसूचकः २. कोमलान्यकठोराणि मुखोच्चार्याण्यमलानि व्यर्थाक्षररहितानि वृत्तानि पद्यानि येषु तानि कोमला मलवृत्तानि.