SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ काव्यमाला। अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातक__स्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ १९१ ॥ भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं ___ दूरावग्रहपृष्टनिष्ट तदलं वृष्ट्या तवातः परम् । निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रैः परं नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ १९२ ॥ नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि नूनं पयोद कुत्रापि । तत्कि तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः ॥ १९३ ॥ (इति प्रकाशवर्षान्योक्तयः ।) __ अथागस्त्यन्योक्तयः। कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्याः पुनः क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्गता वह्नयः । भोः कुम्भोद्भव मुच्यतां जलनिधिः खस्त्यस्तु ते सांप्रतं निद्रालुः श्लथबाहुबल्लिकमलाश्लेषो हरिः सीदति ॥ १९४ ।। अखर्वखर्वगर्तासु विच्छिन्नो यस्य वारिधिः । स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ १९५ ॥ अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् । ब्राझं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ १९६ ॥ (इत्यगस्त्यन्योतयः।) अथ ध्रुवस्य। यदि तारकततिरपरिमिता यदि सविता यदि सोमः। ध्रुव भवदवलम्बेन पुनर्विचरति सकलं व्योम ॥ १९७ ॥ ___अथ कल्पवृक्षान्योक्तयः। कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः । को विशेषस्तदा तस्य वन्यैरन्यमहीरुहैः ॥ १९८ ॥ स्वर्णैः स्कन्धपरिग्रहो मरकतैरुल्लासिताः पल्लवा मुक्ताभिः स्तबकश्रियो मधुलिहां वृन्दानि नीलोत्पलैः । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy