SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। मुञ्च मुञ्च सलिलं कृपानिधे नाथ नास्ति समयो विलम्बने । अद्य चातककुटुम्बके मृते वारि वारिधर किं करिष्यसि ॥ १८५ ।। नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिषण्णोत्तानचञ्चूपुटेन । जलधर जलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ १८६ ॥ विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः । उपकृतिकृते प्रहं चेतः कुरुष्व यदग्रतो ___भ्रमति पवने व त्वं क्वायं व ते जलसंचयः ॥ १८७ ॥ भेकैः कोटरशायिभिर्मतमिव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्छितम् । तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं यत्राकण्ठनिममवन्यकरिणां यूथैः पयः पीयते ॥ १८८ ॥ (इत्यकालजलदान्योक्तयः।) अथ प्रकाशवर्षान्योक्तयः। अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् । अये पश्यावस्थामकरुण समीरव्यतिकरज्वलद्दावज्वालावलिजटिलमूर्तेविटपिनः ॥ १८९ ॥ शोषं गते सरसि शैवलमञ्जरीणा मन्तस्तिमिर्छठति तापविसंस्थुलाङ्गः । अत्रान्तरे यदि न वारिद वारिवृन्दै राप्लावयेस्तदनु किं मृतमण्डनेन ॥ १९० ॥ कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय स्फारैर्भापय गर्जितैरतितरां काय मुखे दर्शय । १. गमनं कुर्वता. २. मकरैः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy