SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। त्वमेव चातकाधार इति केषां न गोचरः । धिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्ष्यसे ॥ १७६ ॥ अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः । तदयमचिरेण भविता सलिलामलिदानयोग्यस्ते ॥ १७७ ॥ त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः । अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १७८ ॥ आश्वास्य पर्वतकुलं तपनोष्मतप्तं दुर्दाववह्निविधुराणि च काननानि । नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यजलद सैव तवोत्तमश्रीः ॥ १७९ ॥ कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा _मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः । शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां कमै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ १८० ॥ एतेषु हा तरुणमारुतधूयमान___ दावानलैः कवलितेषु महीरुहेषु । अम्भो न चेजलद मुञ्चसि मा विमुच्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ १८१ ॥ हृद्या नद्यः कमलसरसी राजहंसावतंसाः पुण्यश्रोता हिमजलभुवस्त्वत्कृते येन मुक्ताः। संप्राप्तेऽस्मिञ्जलद दहनोच्चण्डदाहे निदाघे पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा ॥ १८२ ॥ एतदत्र पथिकैकनीवितं पश्य शुष्यतितरां महत्सरः । घिड्युधाम्बुधर रुद्धसद्गतीवर्धिताः किमिति तेऽद्रिवाहिनीः॥१८३॥ वितर वारिद वारि तृषातुरे चिरपिपासितचातकपोतके । मरुति संचरति क्षणमन्यथा क च भवान्क पयः क च चातकः||१८४॥ १. 'दवार्दिते' इति वा पाठः. २. 'याचके' इति वा पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy