SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | तावन्नीतिसुकीर्तिरीतिविमला तावच्च देवार्चनं यावत्त्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ।। १६१ ।। शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च श्रीखण्डेषु बिभीतकेषु च तथा पूर्णेषु रिक्तेषु च । स्निग्धेन ध्वनिनाखिलेऽपि जगतीचक्रे समं वर्षतो वन्दे वारिदसार्वभौम भवतो विश्वोपकारित्रतम् ॥ १६२ ॥ नीहाराकर सारसागर सरित्कासारनीरश्रियं त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता । तस्यैतत्फलितं समुन्नतशिलासंताडनं मस्तके गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ १६३ ॥ क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुःपूरोदरपूरणाय पिबति स्रोतः पतिं वाडवो जीमूतस्तु निदाघसंभृतजगत्संताप विच्छित्तये ॥ १६४ ॥ अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः । शाखोटकस्य पुनरस्य महाशयोऽय मम्भोद एव शरणं यदि निर्गुणस्य ॥ १६५ ॥ अये वेला लाकुलितकुलशैले जलनिधो कुतो वारामोघं बत जलद मोघं वितरसि । समन्तादुत्तालज्वलदनलकीलाकवलित क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ १६६ ॥ दूरं नीरं तदपि विरसं जङ्गमा नो लताद्यास्तस्मिन्दातर्यपि जलनिधौ को लभेताम्बुबिन्दुम् | दानाध्यक्षे त्वयि जलधर क्वापि कुत्रापि शैलाः शालावन्तोऽमृतनिभजलैस्तर्पिताः सर्व एते ॥ १६७ ॥ १. ' कीलाकवलन' इति वा पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy