SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । वियद्वा स्वाधीना किमुत जडता वा परिणता मरुद्वा नो वास्यत्यथ घन शरद्वा न भविता ॥ १५५ ॥ मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते मच्छायामिति वा यदन्यविषयं विद्वेष्टि वारीति वा । सद्यो वर्ष वराकचातककृते नो चेदयं याचिता याच्ञाया यदुपेक्षणं च जलद व्रीडाकरं त्वादृशाम् ॥ १५६ ॥ सुखयसि तृषोत्ताम्यत्तालूस्खलद्धनिविह्वलं कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् । जलधर यदा कालात्कोsपि प्रचण्डसमीरणः प्रवहति तदा नायं न त्वं न ते जलबिन्दवः ॥ १५७ ॥ एतान्यहानि किल चातकशावकेन नीतानि कण्ठकुहरस्थितजीवितेन । तस्यार्थिनो जलद पूरय वाञ्छितानि मा भूत्त्वदेकशरणस्य बत प्रमादः ॥ १५८ ॥ हे मेघ मानमहितस्य तृषातुरस्य १९ त्यक्तत्वदन्यशरणस्य च चातकस्य । अम्भःकणान्कतिचिदप्यधुना विमुञ्च नो चेद्भविष्यसि जलाञ्जलिदानयोग्यः ॥ १५९ ॥ जलधर घवोऽष्टाभिर्मासैरुपार्जितजीवनो यदुपनतवान्विश्वान्याश्वासयन्नमृतद्रवैः । तदियमुदयद्वल्लीपुष्पाङ्कुरच्छलतो दधौ क्षितिशशिमुखी साहंकारं विभूषणविभ्रमम् ॥ १६० ॥ तावनीतिपरा नराधिपतयस्तावत्प्रजा सुस्थिता तावन्मित्रकलत्रपुत्र पितरस्तावन्मुनीनां तपः । For Private And Personal Use Only १. 'नीत्या तावदमी नराधिपतयः पान्ति प्रजाः पुत्रवत्तावन्नीतिविदः स्वकर्मनिरतास्तावदृषीणां तपः । तावन्मित्रकलत्रपुत्रपितरः स्नेहे स्थिताः संततं यावत्त्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥' इति पाठान्तरम्.
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy