________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
यस्याम्बुकणमादाय प्राप्तोऽसि परमोन्नतिम् । तस्योपरि पयोराशे गर्जन्मेघ न लज्जसे ॥ १४५ ॥ चातकः स्वानुमानेन जलं प्रार्थयतेऽम्बुदात् । स स्वौदार्यतया नित्यं प्लावयत्यम्बुदो महीम् ॥ १४६ ॥ धाराधर धरामेनां धाराभिरभिवर्षसि ।
खगचञ्चुपुटीद्रोणीपूरणे कः परिश्रमः ॥ १४७ ।। जलघर तदयुक्तं किल जलपटलं यद्ददासि रसितयुतम् । उन्नतिभृतां सतां तनुमनसोऽध्वासौ यतस्त्याज्यः ॥ १४८॥ गर्ज त्वं यदि गर्जसि जलधर मा गर्न गर्न गम्भीरम् । निर्दय पथिकवधूजनहृदयस्फोटेन किं लभसि ॥ १४९॥ जलधर एव महत्सु महानिति महतां स्तुतिविषयः । यस्तर्पयति समस्तजगत्कतिपयदिवसाभ्युदयः ॥ १५० ।। यदि यदि सन्ति कथं न सरिद्वापीकूपसरांसि ।
चातक एष पुनः स्पृहयत्यम्बुदभवदम्भांसि ॥ १५१ ॥ श्यामतां वहतु वातु कठोरं वक्तु चार्कविभवं हरतां वा । तद्ददौ किमपि वारिधरस्तु प्रीणितानि बत येन जगन्ति ॥ १५२ ।। जले कजं तिष्ठति चातकः स्थले केकी वने दर्दुरकस्तडागे । चत्वारि मित्राणि मुदं वितेनिरे गर्जारवं कुर्वति वारिवाहे ।। १५३ ॥ यत्त्वद्गर्जितमूर्जितं यदपि ते प्रोद्दामसौदामिनी
दानाडम्बरमम्बरे विरचितं यहूरमभ्युन्नतम् । तेषां पर्यवसानमेतदधुना जातं यदम्भोधर
द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ताः पयोबिन्दवः ॥ १५४ ॥ तृषार्ते पाथोद प्रलपति पुरश्चातकशिशौ
यदेतन्नैष्ठुर्य तदिह गदितुं मां त्वरयति । १. 'यदम्बुकणमादाय प्राप्तोऽसि जलदोन्नतिम् । तस्योपर्यम्बुधे गर्जन्मलिनस्योचिती न ते ॥' इति पाठान्तरम्.
For Private And Personal Use Only